|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.16. अध्यायः 016
Mahabharata - Strii Parva - Chapter Topics
गान्धार्या व्यासप्रसादलब्धदिव्यचक्षुषा रणाङ्कणदर्शंनम्॥ 1 ॥ धृतराष्ट्रयुधिष्ठिरादीनां स्त्रीभिः सह रणभूमिप्रवेशः॥ 2 ॥ स्त्रीणां विलापः॥ 3 ॥ गान्धार्या कृष्णाय विलपत्स्नुषादिप्रदर्शनम्॥ 4 ॥

Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-16-0x(5351)(65221)
एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम्।
अपश्यत्तत्र तिष्ठन्ती सर्वं तत्र यथास्थितम्॥ 11-16-1(65222)
पतिव्रता महाभागा समानव्रतचारिणी।
उग्रेण तपसा युक्ता सततं सत्यवादिनी॥ 11-16-2(65223)
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः।
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्॥ 11-16-3(65224)
ददर्श सा बुद्धिमती दूरादपि यथाऽन्तिके।
रणाजिरं तद्वीराणामद्भुतं रोमहर्षणम्॥ 11-16-4(65225)
अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम्।
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः॥ 11-16-5(65226)
गजाश्वरथयोधानामावृतं रुधिराविलैः।
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः॥ 11-16-6(65227)
गजाश्वनरवीराणां निःसत्वैरभिसंवृतम्।
सृगालवलगोमायुकङ्ककाकनिषेवितम्॥ 11-16-7(65228)
रक्षसां पुरुषादाना मोदनं कुरराकुलम्।
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्॥ 11-16-8(65229)
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः।
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः॥ 11-16-9(65230)
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्।
कुरुस्त्रियः समादाय जग्मुरायोधनं प्रति॥ 11-16-10(65231)
समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः।
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन्॥ 11-16-11(65232)
क्रव्यादैर्भक्ष्यमाणांश्च गोमायुवलवायसैः।
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः॥ 11-16-12(65233)
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः।
कुरर्य इव शोकार्ता विक्रोशन्त्यो निपेतिरे॥ 11-16-13(65234)
अदृष्टपूर्वं पशन्त्यो दुःखार्ता भरतस्त्रियः।
शरीरेषु स्खलन्त्यश्च न्यपतंश्च परासुवत्॥ 11-16-14(65235)
श्रान्तानां चाप्यनाथानां क्रन्दन्तीनां भृशं तदा।
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्॥ 11-16-15(65236)
दुःखोपहतचित्ताभिः समन्तादनुनादितम्।
दृष्ट्वाऽऽयोधनमत्युग्रं धर्मज्ञा सुबलात्मजा॥ 11-16-16(65237)
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम्।
कुरूणां वैशमं दृष्ट्वा इदं वचनमब्रवीत्॥ 11-16-17(65238)
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः।
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव॥ 11-16-18(65239)
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान्।
पृथगेवानुपद्यन्ते पुत्रान्भ्रातॄन्पितॄन्पतीन्॥ 11-16-19(65240)
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम्।
क्वचिच्च वीरपत्नीभिर्हतवीराभिरावृतम्॥ 11-16-20(65241)
शोभितं पुरुषव्याघ्रैः कर्णभीष्माभिमन्युभिः।
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः॥ 11-16-21(65242)
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महाधनैः।
अद्भुतैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम्॥ 11-16-22(65243)
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि।
खङ्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः॥ 11-16-23(65244)
क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्।
क्वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित्॥ 11-16-24(65245)
एतदेवंविधं वीर सम्पश्यायोधनं विभो।
`त्वया तु श्रावितं कर्म पुष्कराक्ष महाद्युते'।
पश्यमाना हि दह्यामि शोकेनाहं जनार्दन॥ 11-16-25(65246)
पाञ्चालानां कुरूणां च विनाशं मधुसूदन।
पञ्चानामपि भूतानामहं वधमचिन्तयम्॥ 11-16-26(65247)
तान्सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षितान्।
विगृह्य चरणैर्गृध्रा भक्षयन्ति सहस्रशः॥ 11-16-27(65248)
जयद्रथस्य कर्णस्य तथैव द्रोमभीष्मयोः।
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति॥ 11-16-28(65249)
अवध्यकल्पान्निहतान्गतसत्वानचेतसः।
गृध्रकङ्कवलश्येनश्वसृगालसमावृतान्॥ 11-16-29(65250)
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान्।
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ॥ 11-16-30(65251)
शयनान्युचिताः सर्वे मृदूनि विमलानि च।
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते॥ 11-16-31(65252)
बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः।
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः॥ 11-16-32(65253)
ये पुरा शेरते वीराः शयनेषु यशस्विनः।
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते॥ 11-16-33(65254)
तेषामाभरणान्येते गृघ्रगोमायुवायसाः।
आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः॥ 11-16-34(65255)
बाणान्वनिनिशितान्पीतान्निस्त्रिंशान्विमला गदाः।
युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति॥ 11-16-35(65256)
सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः।
ऋषभप्रतिरूपाक्षाः शेरते च सहस्रशः॥ 11-16-36(65257)
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः।
शेरतेऽभिमुखाः शूरा दयिता इव योषितः॥ 11-16-37(65258)
बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च।
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन॥ 11-16-38(65259)
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्।
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः॥ 11-16-39(65260)
एते गोमायवो भीमा निहतानां यशस्विनाम्।
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः॥ 11-16-40(65261)
सर्वेष्वपररात्रेषु यानवन्दन्त बन्दिनः।
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः॥ 11-16-41(65262)
तानद्य परिदेवन्ति दुःखार्ता परमाङ्गनाः।
कृपणा वृष्णिशार्दूल दुःखशोकार्दिता भृशम्॥ 11-16-42(65263)
रक्तोत्पलवनानीव विभान्ति रुचिराणि च।
मुखानि परमस्त्रीणां परिशुष्काणि केशव॥ 11-16-43(65264)
रुदित्वा विरता ह्येता ध्यायन्त्यः सपरिक्लमाः।
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः॥ 11-16-44(65265)
एतान्यादित्यवर्णानि तपमीयनिभानि च।
पश्य रोदनताम्राणि वक्त्राणि कुरुयोषिताम्॥ 11-16-45(65266)
श्यामानां वरवर्णानां गौरीणामेकवाससाम्।
दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव॥ 11-16-46(65267)
आसामपरिपूर्णार्थं निशम्य परिदेवितम्।
इतरेरसङ्क्रन्दान्न विजानन्ति योषितः॥ 11-16-47(65268)
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च।
विस्पन्दमाना दुःखेन वीरा जहति जीवितम्॥ 11-16-48(65269)
बह्व्यो दृष्ट्व शरीराणि क्रोशन्ति विलपन्ति च।
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः॥ 11-16-49(65270)
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैः खण्डशः कृतैः।
इतरेतसम्पृक्तैराकीर्णा भाति मेदिनी॥ 11-16-50(65271)
विशिरस्कानथो कायान्दृष्ट्वा ह्येताननिन्दितान्।
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च॥ 11-16-51(65272)
शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः।
अपश्यन्त्योऽपरं तत्र नेदमस्येऽति दुःखिताः॥ 11-16-52(65273)
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक्।
सन्दधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनःपुनः॥ 11-16-53(65274)
उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः।
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः॥ 11-16-54(65275)
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन।
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः॥ 11-16-55(65276)
बाहुभिश्च सखङ्गैश्च शिरोभिश्च सकुण्डलैः।
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा।
बभूव भरतश्रेष्ठ प्राणिभिर्गतजीवितैः॥ 11-16-56(65277)
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः।
भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णां वसुन्धराम्॥ 11-16-57(65278)
यूथानीव किशोरीणां सुकेशीनां जनार्दन।
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः॥ 11-16-58(65279)
इतो दुःखतरं किन्नु केशव प्रतिभाति मे।
यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः॥ 11-16-59(65280)
नूनमाचरितं पापं मया पूर्वेषु जन्मसु।
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातृंश्च माधव॥ 11-16-60(65281)
एवमार्ता विलपती समाभाष्य जनार्दनम्।
गान्धारी पुत्रशोकार्ता द्वदर्श निहतं सुतम्॥ ॥ 11-16-61(65282)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि षोडशोऽध्यायः॥ 16 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-16-1 अवकर्तनं युद्धस्थानम्। सर्वं दिव्येन चक्षुषेति झ.पाठः॥ 11-16-26 पञ्चानां भूतानां पृथिव्यादीनाम्। कुरुपाञ्चालवधात्कृत्स्नं पाञ्चभौतिकं जगन्नष्टमिति भावः॥ 11-16-31 xxxxxxर्येति शेषः॥ 11-16-48 एताः शोचन्तीरभिलक्ष्येति शेषः॥ 11-16-54 विजग्धान्भक्षितान्॥ 11-16-16 षोडशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|